Site icon 24 GhanteOnline | News in Hindi | Latest हिंदी न्यूज़

आजीविकां प्रदातुं देशे प्रथमस्थाने प्रथितः उत्तरप्रदेशस्य सूक्ष्मलघुकुटीरोद्योगः

मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य वृत्ति–अभियानं सर्वकारिवृत्तिम् उद्दिश्य निजक्षेत्रेषु अपि सफलं  भवति । कोरोणाकाले सति अपि गते एकस्मिन् वर्षे देशे प्रदेशस्य सूक्ष्मलघुमध्यमोद्यममात्रकैः प्रदेशे सर्वतोऽधिकवृत्तिः प्रदत्ता । सर्वकारेण एतेभ्यः मात्रकेभ्यः  140कोटिरुप्यकाणाम् अनुवृत्तिः अपि दत्ता ।

मुख्यमन्त्रिणा योगिना कोरोनाकाले मानवतां रक्षितुं जीवनजीविकाभ्यां  प्राथमिकता प्रदत्ता। एतन्निमित्तं गतवर्षे प्रदेशस्य इतिहासे सर्वतोधिकम् ऋणम् उद्योगेभ्यः प्रदत्तम् । इतः पूर्वम् अपि पूर्वतनसर्वकाराणाम् अपेक्षायां योगिसर्वकारद्वारा उद्योगेभ्यः प्राथमिकतायाम् संस्थाप्य ऋणम् उपलब्धम् । प्रदेशसर्वकारस्य समन्वयद्वारा वित्तकोषैः गतचतुर्वर्षेषु 55,45,147मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः ऋणं प्रदत्तं, यस्मिन् 3,08,331मितानां मात्रकानां दृष्टान्तसर्वेक्षणे 9,51,800मितेभ्यः जनेभ्यः वृत्तिः दातुं भौतिकरूपेण पुष्टिः कृता। यतोहि 55,45,147मितेषु मात्रकेषु सामान्यतः सार्धकोटिधिकेभ्यः जनेभ्यः वृत्तिः प्राप्ता ।

एवमेव मात्रकेभ्यः विभिन्नयोजनासु प्रदेशसर्वकारपक्षतः अनुवृत्तिः अपि प्रदत्ता । प्रदेशे गतवर्षे 4571मात्रकेषु 45,166मितेभ्यः जनेभ्यः वृत्तिः प्रदत्ता । एतेभ्यः मात्रकेभ्यः सर्वकारपक्षतः 140कोटिरुप्यकाणाम् अनुवृत्तिः प्रदत्ता । देशे द्वितीयस्थाने गुजरातस्य 1437मात्रकैः 32,409मितेभ्यः जनेभ्यः वृत्तिः प्रदत्ता अपि च तेभ्यः शतकोटिरुप्यकाणाम् अनुवृत्तिः अपि प्रदत्ता । तृतीयस्थाने मध्यप्रदेशस्य 3362मात्रकैः 30,565मितेभ्यः जनेभ्यः वृत्तिः प्रदत्ता अपि च अष्टाशीतिकोटिरुप्यकाणाम् अनुवृत्तिः अपि प्रदत्ता ।

चतुर्वर्षेषु प्रदत्ता 55,45,000मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः अनुवृत्तिः

2016-17तमे वित्तीयवर्षे समाजवादिसर्वकारकाले 6,35,583मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः अनुवृत्तिः प्रदत्ता । अपि च सत्तापरिवर्तने सति एव योगिसर्वकारे 2017-18तमे वित्तीयवर्षे 7,87,572मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः अनुवृत्तिः प्रदत्ता । 2018-19तमे वित्तीयवर्षे 10,24,265मितेभ्यः उद्यमिभ्यः 2019-20तमे वर्षे 17,45,472मितेभ्यः उद्यमिभ्यः अनुवृत्तिः प्रदत्ता । 2020-21तमे वित्तीयवर्षे द्विसहस्रविंशतितमेवर्षे अप्रैलमासस्य प्रथमदिनाङ्कतः द्विसहस्रेकविंशतितमेवर्षे मार्चमासस्य अष्टादशदिनाङ्कपर्यन्तं 13,52,255मितेभ्यः उद्यमिभ्यः अनुवृत्तिः प्रदत्ता ।अत्र 913292 द्विनवत्युत्तरद्विशताधिकत्रयोदशसहस्रोत्तरनवलक्षसंख्यकेभ्यः  सूक्ष्यलघुमध्यमकटिरोद्योगेभ्यः  द्वात्रिंशदुत्तरैकविंशत्यधिकत्रिकोट्युत्तरैत्रिंशत्सहस्ररूप्यकाणाम् आपातकालीन-ऋतिशृंखलाप्रत्याभूतियोजनायां दशाधिकत्रिशतोत्तरैकोनचत्वारिंशदधिकचतुर्लक्षसंख्यकेभ्यः द्वादशसहस्राधिकैकोनसप्ततिकोट्यधिकसप्तपञ्चाशल्लक्षरूप्यकाणाम् ऋणं दत्तं, तत्र 5545147 सूक्ष्मलघुमध्यमोद्योगेभ्यः ऋणं प्रदत्तम्।

Exit mobile version