मुख्यमन्त्रिणा योगिना आदित्यनाथेन चिकित्सकेभ्यः केवलं रोगिणां चिकित्साकार्ये नियोक्तुं निर्देशः दत्तः। साकमेव सर्वकारि-चिकित्साल्यानां प्रशासनिकप्रबन्धनस्य च कार्येषु व्यवसायप्रबन्धनिष्णातान् यूनः नियोक्तुं निर्देशः दत्तः।
कोरोनासङ्क्रमणम् आधृत्य प्रदेशस्य स्वास्थ्यसेवाम् उद्दिश्य च शनिवासरे जाते उपवेशने मुख्यमन्त्रिणा अधिकारिणः उक्ताः यत् स्वास्थ्यविभागस्य चिकित्साशिक्षाविभागस्य च भिन्नभिन्नचिकित्सालयैः/कार्यालयैः सहितं यत्र यत्र चिकित्सकानां नियुक्तिः प्रशासनिक-प्रबन्धकीयकार्येषु कृता, ते ततस्ततः शीघ्रं दायित्वमुक्ताः करणीयाः।
कोरोना काल में कुपोषित बच्चों और गर्भवती महिलाओं का ‘सहारा’ बनी योगी सरकार
ते सर्वे चिकित्साकार्येषु योजनीयाः । मुख्यमन्त्रिणा उक्तं यत् प्रबन्धनकार्येभ्यः आवश्यकतानुसारं व्यवसायप्रबन्धनिष्णातेभ्यः युवभ्यः अवसरः दातव्यः ।
मुख्यमन्त्री उपचर्यामहाविद्यालयेषु प्रशिक्षुपरिचारिकाभ्यः सूच्यौषधं प्रयोक्तुं प्रशिक्षणस्य निर्देशः दत्तः। तेनोक्तं यज्जूनमासे एककोटिसंख्यकेभ्यः जनेभ्यः सूच्यौषधं प्रयोक्ष्यते। जुलाईमासे द्विगुणितस्य त्रिगुणितस्य च विस्तारस्य च योजना वर्तते।तदर्थं सूच्यौषधप्रयोक्तॄणाम् आवश्यकता भविष्यति। अतः प्रशिक्षुपरिचारिकानां प्रशिक्षणम् आगामिसप्ताहे आरब्धव्यम्।